|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.101. अध्यायः 101
Mahabharata - Sabha Parva - Chapter Topics
पाण्डवानां वनप्रस्थानेन खिद्यतां पौराणां वचनानि॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
वैशम्पायन उवाच॥
ततः सम्प्रस्थिते तत्र धर्मराजे तदा नृप।
जनाः समन्ताद्द्रष्टुं तं समारुरुहुरातुराः॥ 2-101-1(15461)
ततः प्रासादवर्याणि विमानशिखराणि च।
गोपुराणि च सर्वाणि वृक्षानन्यांश्च सर्वशः॥ 2-101-2(15462)
अथाधिरुह्य सस्त्रीका उदासीना व्यलोकयन्।
न हि रथ्यास्तदा शक्या गन्तुं ताश्च जनाकुलाः॥ 2-101-3(15463)
आरुह्य स्मानतास्तत्र दीनाः पश्यन्ति पाण्डवान्।
पदातिं वर्जितच्छत्रं चेलभूषणवर्जितम्॥ 2-101-4(15464)
वल्कलाजिनसंवीतं पार्थं दृष्ट्वा जनास्तदा।
ऊचुर्बहुविधा वाचो भृशोपहतचेतसः॥ 2-101-5(15465)
जना ऊचुः। 2-101-6x(1732)
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।
तमेकं कृष्णया सार्धमनुगच्छन्ति पाण्डवाः॥ 2-101-6(15466)
चत्वारो भ्रातरश्चैव धौम्यश्चैव पुरोहितः।
भीमार्जुनौ वारयित्वा निकृत्या बद्धकार्मुकौ॥ 2-101-7(15467)
धर्म एवास्थितो येन त्यक्त्वा राज्यं महात्मना।
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि॥ 2-101-8(15468)
तामद्य कृष्णां पश्यन्ति राजमार्गगता जनाः।
अङ्गरागोचितां कृष्णां रक्तचन्दनसेविनीम्॥ 2-101-9(15469)
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्।
अद्य नूनं पृथा देवी सत्यमाविश्य भाषते॥ 2-101-10(15470)
पुत्रान्स्नुषां च देवी तु द्रष्टुमद्याथ नार्हति।
निर्गुणस्यापि पुत्रस्य कथं स्याहुः स्वदर्शनम्॥ 2-101-11(15471)
किम्पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्।
आनृशंस्यमनुक्रोशो धृतिः शीलं दमः शमः॥ 2-101-12(15472)
पाण्डवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्।
तस्मादस्योपघातेन प्रजाः परमपीडिताः॥ 2-101-13(15473)
औदकानीव सत्वानि ग्रीष्मे सलिलसङ्क्षयात्।
पीडया पीडितं सर्वं जगदस्य जगत्पतेः॥ 2-101-14(15474)
मूलस्यैवोपघातेन वृक्षः पुष्पफलोपगः।
मूलं ह्येष मनुष्याणां धर्मराजो महाद्युतिः॥ 2-101-15(15475)
पुष्पं फलं च पत्रं च शाखास्तस्येतरे जनाः।
ते भ्रातर इव क्षिप्रं सपुत्राः सहबान्धवाः॥ 2-101-16(15476)
गच्छन्तमनुगच्छामो येन गच्छति पाण्डवः।
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च॥ 2-101-17(15477)
एकदुःखसुखाः पार्थमनुयाम सुधार्मिकम्।
समुच्छ्रितपताकानि परिध्वस्ताजिराणि च॥ 2-101-18(15478)
उपात्तधनधान्यानि हृतसाराणि सर्वशः।
रजसाऽप्यवकीर्णानि परित्यक्तानि दैवतैः॥ 2-101-19(15479)
मूषकैः परिधावद्भिरुद्बलैरावृतानि च।
अपेतोदकधूमानि हीनसंमार्जनानि च॥ 2-101-20(15480)
प्रनष्टबलिकर्मेज्यामन्त्रहोमजपानि च।
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च॥ 2-101-21(15481)
अस्मत्त्यक्तानि वेश्मानि सौबलः प्रतिपद्यताम्।
वनं नगरमेवास्तु येन गच्छन्ति पाण्डवाः॥ 2-101-22(15482)
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्।
बिलानि दंष्ट्रिणः सर्वे वानि मृगपक्षिणः॥ 2-101-23(15483)
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि।
अनाक्रान्तं प्रपद्यन्तः सेवमानं त्यजन्तु च॥ 2-101-24(15484)
तृणमांसफलादानां देशांस्त्यक्त्वा मृगद्विजाः।
वयं पार्थैर्वने सम्यक्सह वत्स्याम निर्वृताः॥ 2-101-25(15485)
इत्येवं विविधा वाचो नानाजनसमीरिताः।
शुश्राव पार्थः श्रुत्वा च न विचक्रेऽस्य मानसम्॥ 2-101-26(15486)
ततः प्रासादसंस्थास्तु समन्ताद्वै गृहे गृहे।
ब्राह्मणक्षत्रियविशां शूद्राणां चैव योषितः॥ 2-101-27(15487)
गत्वा स्वगृहजालानि उत्पाट्यावरणानि च।
ददृशुः पाण्डवान्दीनान्वल्कलाजिनवाससः॥ 2-101-28(15488)
कृष्णां त्वदृष्टपूर्वां तां व्रजन्तीं पद्भिरेव च।
एकवस्त्रां रुदन्तीं तां मुक्तकेशीं रजस्वलाम्॥ 2-101-29(15489)
दृष्ट्वा तदा स्त्रियः सर्वा विवर्णवदना भृशम्।
विलप्य बहुधा मोहाद्दुःखशोकेन पीडिताः।
हाहा धिग्धिग्धिगित्युक्त्वा नेत्रैरश्रूण्यवर्तयन्॥ 2-101-30(15490)
जनस्याथ वजः श्रुत्वा स राजा भ्रातृभिः सह।
उद्दिश्य वनावासाय प्रतस्थे कृतनिश्चयः॥ 2-101-31(15491)
वैशम्पायन उवाच॥ 2-101-32x(1733)
तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम्।
अपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः॥ 2-101-32(15492)
ततो निनादः सुमहान्पाण्डवान्तः पुरेऽभवत्॥ 2-101-33(15493)
कुन्ती च भृशशन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम्।
शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत्॥ 2-101-34(15494)
वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत्।
स्त्रीधर्माणामभिज्ञाऽसि शीलाचारवती तथा॥ 2-101-35(15495)
न त्वां शन्देष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते।
साध्वी गुणसमापन्ना भूषितं ते कुलद्वयम्॥ 2-101-36(15496)
सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयाऽनघे।
अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता॥ 2-101-37(15497)
भाविन्यर्थे हि सत्स्त्रीणां वैकृतं नोपजायते।
गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवप्स्यसि॥ 2-101-38(15498)
सहदेवश्च मे पुत्रः सदाऽवेक्ष्यो वने वसन्।
यथेदं व्यसनं प्राप्य नायं सीदेन्महामतिः॥ 2-101-39(15499)
वैशम्पायन उवाच॥ 2-101-40x(1734)
तथेन्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला।
शोणिताक्तैकवसना मुक्तकेशी विनिर्ययौ॥ 2-101-40(15500)
तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम्।
अथापश्यन्सुतान्सर्वान्हृताभरणवाससः॥ 2-101-41(15501)
रुरुचर्मावृततनून्ह्रिया किञ्चिदवाह्मुखान्।
परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान्॥ 2-101-42(15502)
तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला।
स्वजमानाऽवदच्छेकात्तत्तद्विलपती बहु॥ 2-101-43(15503)
कुन्त्युवाच। 2-101-44x(1735)
कथं सद्धर्मचारित्रान्वृत्तस्थितिविभूषितान्।
अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा॥ 2-101-44(15504)
व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः।
कस्यापध्यानजं चेदमागः पश्यामि वो धिया॥ 2-101-45(15505)
स्यात्तु मद्भाग्यदोषोऽयं याऽहं युष्मानजीजनम्।
दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः॥ 2-101-46(15506)
कथं वत्स्यथ दुर्गेषु वने ऋद्धिविनाकृताः।
वीर्यसत्वबलोत्साहतेजोभिरकृशाः कृशाः॥ 2-101-47(15507)
यद्येवमहमज्ञास्यं वने वासं हि वो ध्रुवम्।
शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम्॥ 2-101-48(15508)
धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा।
यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम्॥ 2-101-49(15509)
धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम्।
मन्ये तु माद्रीं धर्मज्ञां कल्याणीं सर्वथैव तु॥ 2-101-50(15510)
रत्या मत्या च गत्या च ययाऽहमभिसन्धिता।
जीवितप्रियतां मह्यं धिङ्मां सङ्क्लेशभागिनीम्॥ 2-101-51(15511)
पुत्रका न विहास्ये वः कृच्छ्रलब्धान्प्रियान्सतः।
साऽहं यास्यामि हि वनं हा कृष्णे किं जहासि माम्। 2-101-52(15512)
अन्तवत्यसुधर्मेऽस्मिन्धात्रा किं नु प्रमादतः।
ममान्तो नैव विहितस्तेनायुर्न जहाति माम्॥ 2-101-53(15513)
हा कृष्ण द्वारकावासिन्क्वासि सङ्कर्षणानुज।
कस्मान्न त्रायसे दुःखान्मां चेमांश्च नरोत्तमान्॥ 2-101-54(15514)
अनादिनिधनं ये त्वामनुध्यायन्ति वै नराः।
तांस्त्वं पासीत्ययं वादः स गतो व्यर्थतां कथम्॥ 2-101-55(15515)
इमे सद्धर्ममाहात्म्ययशोवीर्यानुवर्तिनः।
नार्हन्ति व्यसनं भोक्तुं नन्वेषां क्रियतां दया॥ 2-101-56(15516)
सेयं नीत्यर्थविज्ञेषु कथमापदुपागता॥
स्थितेषु कुलनाथेषु कथमापदुपागता॥ 2-101-57(15517)
हा पाण्डो हा महाराज क्वासि किं समुपेक्षसे।
पुत्रान्विवास्यतः साधूनरिभिर्द्यूतनिर्जितान्॥ 2-101-58(15518)
सहदेव निवर्तस्व ननु त्वमसि मे प्रियः।
शरीरादपि माद्रेय मां मा त्याक्षीः कुपुत्रवत्॥ 2-101-59(15519)
व्रजन्तु ब्रातरस्तेऽमी यदि सत्याभिसन्धिनः।
मत्परित्राणजं धर्ममिहैव त्वमवाप्नुहि॥ 2-101-60(15520)
वैशम्पायन उवाच॥ 2-101-61x(1736)
एवं विपलतीं कुन्तीमभिवाद्य प्रणम्य च।
पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः॥ 2-101-61(15521)
विदुरश्चापि तामार्तां कुन्तीमाश्वास्य हेतुभिः।
प्रावेशयद्गृहं क्षत्ता स्वयमार्ततरः शनैः॥ 2-101-62(15522)
धार्तराष्ट्रस्त्रिस्ताश्च निखिलेनोपलभ्य तत्।
गमनं परिकर्षं च कृष्णाया द्यूतमण्डले॥ 2-101-63(15523)
रुरुदुः सुस्वनं सर्वा विनिन्दन्त्यः कुरून्भृशम्।
दध्युश्च सुचिरं कालं करासक्तमुखाम्बुजाः॥ 2-101-64(15524)
राजा च धृतराष्ट्रस्तु पुत्राणामनयं तदा।
ध्यायन्नुद्विग्नहृदयो न शान्तिमधिजग्मिवान्॥ 2-101-65(15525)
स चिन्तयन्ननेकाग्रः शोकव्याकुलचेतनः।
क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति॥ 2-101-66(15526)
ततो जगाम विदुरो धृतराष्ट्रनिवेशनम्।
तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो जनाधिपः॥ ॥ 2-101-67(15527)
इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि एकोत्तरशततमोऽध्यायः॥ 101॥
Mahabharata - Sabha Parva - Chapter Footnotes
2-101-40 शोणिताक्तैकवसना रजस्वला॥ 2-101-51 मह्यं मम ॥ 2-101-53 असुधर्मे प्राणधारणे। अन्तवति विनाशवति॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|